SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ ३०३८ आङ्गिरसस्मृतिः अत्र पितरोऽमुत्र च अमी मदमतः परम् । ये समानास्ततो भूयो येन जातास्ततः परम् ॥८५५।। वीरं धत्तेति तत्प्राश्याघ्राय वा तत्परं पुनः। मार्जयन्तेति मन्त्रेण पूर्ववच्च तिलोदकम् ॥८५६।। दत्वाञ्जनाभ्यञ्जने च वासश्छित्वा विधानतः। नमो व इति मन्त्रेण नमस्कारान् समाचरेत् ॥८५७।। गृहान्न इति मन्त्रं च ऊजं वहन्तीमनुं ततः । उत्तिष्ठत पितरो मनो न्वाहुवेति मन्त्रकम् ॥६५८।। पुनर्न इति भूयश्च यदन्तरिक्षमिति वै । मन्त्रान् जप्त्वा क्रमेणैवं पिण्डांस्तान्पूजयेत्ततः ॥८५६।। पितृपिण्डार्चनं यैस्तु क्रियते दर्भपत्रकैः । तण्डुलैरक्षतैः पुष्पैस्तिलैरपि यवैस्तथा ॥८६०।। प्रीणिताः पितरस्तेन यावच्चन्द्रार्कमेदिनी । पुत्रकलत्रादिभिः पितृप्रदक्षिणनमस्कारः वासोभिः पूजयेत्पिण्डान् यथाशक्त्या विचक्षणः ।।८६१।। दक्षिणाभिश्च ताम्बूलैधूपदीपादिभिस्तथा । प्रदक्षिणनमस्कारैः पुत्रपौत्रादिभिः सह ॥८६॥ कलत्रैः परिवारैश्च न चेत्तस्य कुलं तराम् । न वर्धते क्षीयते च काले काले शनैः शनैः ॥८६३।। त एव पिण्डाः पितरस्तद्र पेण स्थिताः परम् । भवेयुः पूजनार्थाय नात्र कार्या विचारणा ||८६४॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy