________________
३०३६
आङ्गिरसस्मृतिः तथा घोषः प्रकर्तव्यः स्वयं परमुखात्तथा। यत्नात्कारयितव्यश्च न चेहोषो महान् भवेत् ॥८३४।। वेदोच्चारणसामर्थ्यविकलो यदि तत्करः। नमो वः पितरो मन्त्रमात्रं भक्त्या जपेत्तु वै ॥८३।। इदं विष्णुाहृतीर्वा गायत्री वा विधानतः। विष्णोरराटमन्त्रं वा गायत्री वैष्णवीमपि ॥८३६।। न चेत्तु पौरुषं सूक्तमथवा तं त्रियम्बकम् । आ वो राजानमन्त्रं वा मधुत्रयमथापि वा ॥८३७।। नमो ब्रह्मण्यमन्त्रं वा दश शान्तिषु कामपि । स्वाधीनां तामृचं नो चेद्गायत्रीं सर्वशून्यदाम् ।।८३८।। प्रतद्विष्णुमन्त्रमिरावती धेनुमतीति च। यजमानः स्वयं प्रीत्यै पितृभ्यो प्रवदेत्तराम् ॥८३६॥ भोजनान्ते च संपन्नं प्रददेत्पुरतः स्थितः । तृप्ताः स्थेति द्विवारं तदुक्त्वा दद्यात्तदन्नकम् ॥८४०॥ तत्रैव विकिरेत्पात्रसमीपे तत्पुरः स्थितः । उच्छिष्टपिण्डं च दद्यादुत्तरापोशनं ततः ॥८४।। सर्वाण्येतानि शिष्टानामाचारेण न चोक्तितः । सूत्रकारस्य वेदस्य कृतेऽभ्युदयमुच्यते ॥८४२।। अकृते प्रत्यवायो न पुनरन्यानि केवलम् । तत्तक्रियाविशेषेषु तूष्णीकं वेदमन्त्रकैः ॥८४३।। अत्रानुक्त महाकालविलम्बो बाधकाय वै । भवेदेव न सन्देहः श्राद्धमन्त्रो य ईरितः ॥८४४||