SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ मन्त्रवैकल्यनाशाय वेदघोषवर्णनम् ३०३५ सत्यं त्वर्तेन विधिना ब्राह्मणं परिषिच्य वै । पृथिवी तेति तत्सर्वमभिमृश्य ततः पुनः ॥८२४॥ समुपस्पर्शयित्वाथ पित्रादिभ्यो निवेदयेत् । प्रधानमेतद्धोमश्च समुपस्पर्शनं पुनः ॥८२५।। मन्त्राः वाच्याः एतन्मन्त्रत्रयं वाचा यजमानः समुच्चरेत् । एतन्मन्त्रत्रयं श्राद्ध प्रधानकमिहोच्यते ॥८२६।। तथा पिण्डप्रदानस्य मन्त्राः केचन चोदिताः। एतदुच्चारणाशक्तौ व्यथं श्राद्धं भवेत्किल ॥८२७|| तस्माद्यत्नेन महता होमाग्नेय इति त्रयम् । द्वयं वाथ पुनश्चैकं पृथिवी तेति किंचन ॥८२८।। अन्नाभिमर्शने प्रोक्तममृतोपस्तराणकम् । पञ्च प्राणाहुतौ मन्त्राः प्राणायेत्यादिकाः पराः ।।८२६।। यथावदेव वाचा ते प्रवाच्या श्राद्धकर्मणि । न चेच्छ्राद्धं भवेन्नैतदेतैर्मन्त्रैर्भवेद्धि तत् ॥३०॥ पश्चात्पिण्डप्रदानेऽपि मन्त्रा वाच्याश्च भक्तितः। मन्त्रवैकल्यनाशाय वेदघोषः भोजने समुपक्रान्ते वेदघोष प्रयत्नतः ॥८३१॥ कारयेद्विप्रमुखतः ऋग्यजुःसामभिस्तराम् । तेन वैकल्यदोषा ये रक्षोभिः परिकल्पिताः ॥८३२॥ सद्यो नष्टा भवेयुर्हि तस्मादेव तथाचरेत् । यथान्यघोषो विप्राणां शृणुयानात्र केवलम् ॥८३३।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy