________________
३०३४
आङ्गिरसस्मृतिः तद्राक्षसं भवेच्छाद्धं तथा तस्मान्न चाचरेत् ।
रक्षोनमन्त्रम् अन्नमाज्येनाभिघाय गायच्या प्रोक्ष्य तत्परम् ॥८१।। दधिनान्नं (दर्भेणान्न) च प्रच्छाद्य चाहमस्मीति सूक्तकम् । प्रपठेदन विधिना राक्षोन्नश्रुतिमध्यगम् ॥८१६।।
येन केनाप्युच्चारणमसमर्थस्य स्वयं यद्यसमर्थश्चन्मन्त्रोच्चारणकर्मणि । येन केन च विप्रेण वाचनीयं प्रयत्नतः ॥८१७|| नैते मन्त्रा याजमाना अत्रोक्ताः किल कर्मणि । राक्षसानां विनाशाय वेदघोषः प्रशस्यते ॥८१८।। स घोषो ब्राह्मणैः कतुं शक्यते प्रकृते किल ।
उष्णं दातव्यम् अन्नं वस्तूनि यानीह पात्रेण सह केवलम् ॥८१६।। चुल्लिस्थानि भवेयुर्हि तेभ्यः पात्रेभ्य एव वै । दर्विभ्यश्च समुद्धृत्य स्वल्पं स्वल्पं यथोष्मकम् ।।८२०॥ यदा भवेत्तदा तत्र विप्रेभ्यः परिवेषयेत् । ऊष्मभागा हि पितरश्चोष्मशून्यं न पैतृकम् ॥८२१।। भवेदेव न सन्देहः पश्चादन्नं यथा पुरा । विप्रहस्ते जलं दत्वा गायत्र्या प्रोक्ष्य वै ततः ।।८२२।। यदैवाहवनीयं वै दक्षिणाग्निं विधानतः । नित्यं वै गार्हपत्यं च परिषिञ्चति मन्त्रतः ।।८२३।।