________________
विष्ठरवर्णनम्
३०३१ वरणत्रयकाल: केचिद्रात्रौ तु पूर्वेयु स्तहिने प्रातरेव च । कुतपे तहिने भूयत्रिवारं श्राद्धमूचिरे ॥७८५।। सकृदेवेति तज्जामितया श्राद्धं प्रकुर्वते । तत्स्थाने वरणं कृत्वा श्राद्धं सर्वं प्रकुर्वते ॥७८६॥ ओं भूर्भुवः सुवरिति स्वाहान्तमन्त्री वै ततः।
विष्टरः अयं वो विष्टरश्चेति प्रदद्याद्विष्टरं तथा ॥७८७।। स्वधाशब्दं पितृस्थाने सर्वत्रैवं विधीयते । अनेनैव तु मन्त्रेण तत्पूजा विहिता परा ॥७८८॥ अयं हि परमो मन्त्रः पितृणामर्चने महान् । प्रयोक्तव्यः श्राद्धदिने मन्त्राः प्राकृतमातृकाः ॥७८६।। विश्वान देवान् पितृन्वापि संबुध्योचार्य तत्परम् । पूर्वोक्त नैव मन्त्रेण विष्टरं प्रतिपादयेत् ॥६॥ षष्ठयन्तेनासनं दद्यात्क्षणश्च क्रियतामिति । क्षणं दद्यात्तु दर्भेण हस्तसंस्पर्शनेन वा ७६१|| प्राप्नुवन्तु भवन्तश्च तारपूर्वेण वै वदेत् । अध्यं कृत्वा कृतः प्रोक्तः कर्तव्य इति चेत्ततः ॥७६२) दर्भानास्तीर्य भूपृष्ठ. तत्र पात्रमधोबिलम् । निक्षिप्य तदुपर्येवं दभैराच्छिद्य वै ततः ॥७६३॥ उद्धृत्य प्रोक्ष्य तत्पात्रे यवानिक्षिप्य शम्बरम् । भूर्भुवःसुवरापूर्वगन्धाक्षतसुमादिकम् ॥६४॥