________________
३०३०
आङ्गिरसस्मृतिः एतद्धि वरणं प्रोक्तं पितृणामेवमेव वै ।
मण्डलपूजा कृत्वा तु वरणं पश्चादों तथेति च चोदिते ॥७७७|| कृत्वा तु मण्डलं शुद्ध गोमयेन विधानतः । मण्डलं पूजयित्वादौ दैवं पैतृकमेव च ॥७७८।। मण्डलात्पश्चिमे भागे ब्राह्मणे स्वागतीकृते । तत्रैव विसृजेत्पाद्य क्षालयेन्मण्डलोपरि ७७६।।
गुल्फयोरधः क्षालनम् पादप्रक्षालनं श्राद्ध वरं स्याद्गुल्फयोरधः । पितृणां नरकं घोरं रोमसंसक्तवारिणा ॥७॥ यदि स्याद्रोमसंसक्त पादप्रक्षालने भवेत्। तद्दोषपरिहाराय आजानु क्षालयेत्परम् ॥७८१।।
आचमनप्रकरणम् आदावन्त्ये च पाद्य च विष्ठरे विकिरे तथा । उच्छिष्टपिण्डदाने च षट्सु चाचमनं स्मृतम् ॥७८२।।
कर्तुः पूर्व भोक्तु राचमने कर्ताऽनाचम्य यद्भोक्ता कुर्यादाचमनक्रियाम् । शुनो मूत्रसमं तोयं तस्मात्तत्परिवर्जयेत् ॥७८३।।
देवादिभोजनदिक उदङ्मुखस्तु देवानां पितृणां दक्षिणामुखः । प्रदद्यात्पार्वणे सर्व देवपूजाविधानतः ॥७८४।।