________________
प्रसादायदर्भदानम्
३०२६ नावेक्ष्या एव चैते वै यदि दृष्टास्तदा तदा। अग्नेमन्वेऽनुवाकस्य पठनात्कृतकृत्यता ॥७६७।। तीर्थप्रतिग्रही दृष्टो यदि श्राद्धदिने तराम् । तीर्थजीवी तदावासी तत्पुरोहित एव च ॥७६८।। यदा दृष्ठस्तदा सूर्य पश्येमेति विलोकयेत् ।
वरणम त्रिपूर्षचर्यावृत्तान्तः स्पष्टो यस्य भवेत्तराम् ॥७६६।। तादृशं प्रयतं दान्तमलोलुपमदाम्भिकम् । यदृच्छालाभसन्तुष्ट श्रोत्रियं वेदिनं शुचिम् ॥७७०।। नित्याग्निं पूर्ववयसं सुधियं सत्कुलोद्भवम् । तस्मात्प्रत्युपकारैकरहितं सुमुखं द्विजम् ॥७७१।। समीक्ष्य वरयेत्सम्यग्ब्राह्मणं श्राद्धकर्मणि। आदौ संकल्प्य प्रयतः सपवित्रकरस्तथा ॥७७२।। दर्भपाणिः कृतप्राणायामोऽत्वरतरस्तराम् । अक्रोधनश्च सुमुखो वाचा संकल्पमाचरेत् ॥७७३।। देशं कालं च संकीर्त्य तथा च प्रकृते ततः । पितन देवान् प्राकृतान्वै समुहिश्य च प्राकृतम् ।।७७४।। करिष्ये कर्म चैवेति संकल्पं प्रथमं चरेत् ।
प्रसादाय दर्भदानम् विश्वेषामत्र देवानां स्थानमाहवनीयके ॥७७।। क्षणं कृत्वा प्रसादोऽद्य करणीय उदीर्यते। इत्येवं दक्षिणे हस्ते दद्याद्दर्भान् द्विजस्य वै ॥७७६।।