SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ३०२८ आङ्गिरसस्मृतिः अत्यन्तचपलं श्रान्तमवीरापतिमेव च । तथैव गर्भिणीनाथमभोज्यान्नं दुरागसम् ॥७५६।। अश्रोत्रियसुतं कारुधृतवस्त्रं च दुःशठम् । गायकं व्रणिनं क्षुद्रभाषिणं तुच्छभाषकम् ॥७५७।। हास्यकारं नटं नाट्यविद्य बुरुडकृत्यकम् । क्षुद्रजीवं कार्यजीवं नित्यवेतनजीविनम् ॥७५८॥ न भोजयेत्प्रयत्नेन निमन्त्रणदिनात्परम् । दिनत्रयं वर्जयित्या (त्वा) वृणुयादतिचर्यया ॥७५६।। अनुमासिकभोक्तारं पक्षमात्र परित्यजेत् । ऊनमासिकभोक्तारं मासमात्रं परित्यजेत् ॥७६०।। नमश्राद्ध वर्षमात्रं नवश्राद्ध तदर्धकम् । षोडशे सार्धवर्ष तु सपिण्डे च द्विवत्सरम् ॥७६१।। वर्जयित्वा द्विजं पश्चाग्राहयेच्छ्राद्धकर्मणि । शूद्रामश्राद्धगं सम्यक् त्यजेद्वर्षत्रयं तथा ॥७६२।। नृपवैश्यश्राद्धभिरसाभक्षकं सन्ततं तराम् । वर्जयेदव्दमात्रं तु ग्रामचण्डालकर्मसु ॥७६३।। आमश्राद्धगृहीतारं तदिने नावलोकयेत् । दिवारात्रमसंभाष्यो दिवाकीर्त्यपुरोहितः ॥७६४।। पुण्यकाले त्वसंभाष्यः कुलालानां पुरोहितः । भानुवारे भौमवारे शुक्रवारे च सन्ततम् ॥७६।। असंभाष्यः प्रयत्नेन परसौनपुरोहितः।। पर्वणोर्योगकालेषु द्विजवेश्यापुरोहितः ॥७६६।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy