________________
३०२६ - आङ्गिरसस्मृतिः
वेदाध्यायी तु यो विप्रः सततं ब्रह्मणि स्थितः । साचारः साग्निहोत्री च सोऽग्निः कव्यवाहनः ।।७३६।।
वेदहीननिमन्त्रणे मन्त्रपूतं तु यच्छ्राद्धममन्त्राय प्रयच्छति । तदन्नं तस्य कुक्षिस्थं रुदत्येव न संशयः ॥७३७|| शपत्येनं प्रदातारं स्वस्य तं तादृशं किल । यजनं च प्रदातारं तदन्नं तद्धृदि स्थितम् ॥७३८। यावतः पिण्डान् खलु स प्राश्नाति हविषोऽल्पकः। तावतः शूलान् प्रसति प्राप्य वैवस्वतं यमम् ॥७३॥ दातृहस्तं च छिन्दन्ति जिह्वाग्रमितरस्य च । पश्यतश्चक्षुषी चैव शृण्वतः श्रोत्रयुग्मकम् ॥७४०॥ दुर्लभायां स्वशाखायां भोक्तृनन्यान्निवेदयेत् ।
स्वशाखीयः श्लाघ्यः पित्रोः श्राद्ध विशेषेण स्वशाखीयान्निवेदयेत् ।।७४१।। कन्यादानं पितृश्राद्धं शुद्धकच्छेभ्य एव च। प्रदेयं स्यात्प्रयत्नेन नासत्कच्छेभ्य एव वै ॥७४२॥
अभोज्याः रोगयुक्त दुष्टबुद्धिं दुष्टचारित्रतत्परम् । सदोषकं च सद्वषं कुनखं श्यावदन्तकम् ॥७४३।। नित्याऽप्रयतवमणिं दुर्वणं च कुरूपिणम् । नक्षत्रजीवनं दासकृत्यं शूद्रकजीविनम् ॥७४४॥