SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ निमन्त्रर्णाहविप्राणाम्वर्णनम् ३०२५ अष्टकामासिश्राद्धम् माघकृष्णाष्टमी यस्यां रात्रौ कुर्यात्समन्त्रकम् । होमं दध्यञ्जलिस्तस्यापूपस्य स्थानके ततः ॥७२७।। नवम्यां तु ततो भक्त्या श्राद्धं कुर्याद्विधानतः । मासिश्राद्धविधानेन तावन्मात्रेण केवलम् ॥७२८।। तानि शिष्टानि सर्वाणि ह्य कादश किलाऽष्टकाः । कृता एव भवेन्नूनं लघूपायोऽयमुच्यते ॥७२६।। अष्टकासु यथा दर्शश्राद्धतोऽखिलपैतृकाः। कृतप्राया इति तथा लघूपायः प्रकीर्तितः ॥७३०।। सर्वाणि पृथगेव स्युः कार्याणि नियमेन वै ।' अष्टोत्तराणि ख्यातानि कदाचित्तु विशेषतः ॥७३॥ असमर्थस्य तु प्रोक्तो लघूपायस्तु कश्चन । समर्थस्तु यथाकल्पं प्रतिसंवत्सरं द्विजः ॥७३२॥ सर्वाणि कुर्याच्छःद्धानि न चेदोपश्च कीर्तितः । __ श्राद्धप्रयोगः । श्राद्धप्रयोगश्च मया कृत्स्न एवोच्यतेऽधुना ॥७३३।। निमन्त्रणम् निमन्त्रणं च पूर्वेध : प्रकर्तव्यं विधानतः । निमन्त्रणाऱ्याः विप्राणां वेदिनां नित्यं कार्य नाऽवेदिनां तराम् ।।७३४॥ कुक्षौ तिष्ठति यस्यान्नं वेदाभ्यासेन जीर्यते । कुलं तारयते तेषां दश पूर्वान् दशाऽपरान् ॥७३॥ १६०
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy