________________
३०२४
आङ्गिरसस्मृतिः भवेयुरेव तस्मात्तु परेऽहन्येव तर्पणम् ।। श्राद्धे यावन्त उद्दिष्टास्तत्परेऽहनि तान् यजेत् ।।७१८॥
रब्युदयात्पूर्व तर्पणम् तच्छेषतिलदभैस्तु पूर्व सूर्योदयस्य वै । प्रनष्टपितृकश्चेत्तु तर्पणस्याधिकाययम् ॥७१६।। स प्रनष्टप्रसूनित्यं तर्पणेऽधिकृतो भवेत् ।
जीवत्पितृकश्राद्धम् मासिश्राः पितृयज्ञे नान्दीश्राः च सन्ततम् ।।७२०॥ जीवत्तातोऽपि कर्ता स्यादाहोमात्करणं स्मृतम् । पूर्वद्वये तु सततं नान्दीश्राद्धं तु सर्वदा ॥७२१।। येषामेव पिता दद्यात्तेभ्यो दद्यात्तु तत्सुतः । ताते भ्रष्ट च संन्यस्ते रुग्णे रोगैकपीडिते ॥७२२॥ यत्कर्तव्यं तेन कर्म पैतृकं तत्सुतश्चरेत् ।
__श्राद्धे वैदिकाग्न्यधिकारिणः पित्रोः श्राद्धं स्वपत्न्याश्च सपत्नीमातुरेव च ॥७२३॥ मातामहस्य तत्पल्याः श्राद्धमौपासने भवेत् । तद्भिन्नानां तु सर्वेषां श्राद्धं स्याल्लौकिकानले ॥७२४।। अपुत्राणां पितृव्यानां भ्रातृणामग्रजन्मनाम् । तत्पत्नीनां च सर्वासां लौकिकाग्नौ यथाविधि ॥७२५।। अवश्यत्वेन कर्तव्यं न त्याज्यं धर्मतोऽखिलैः । प्रत्यब्दं श्राद्धमानं स्यात् पितृश्राद्धसमानतः ॥७२६।।