________________
३०२३
सुमङ्गलीनांकृते श्राद्धव्यवस्थावर्णनम्
____ यतीनां महालयः तत्र पक्षे यतीनां तु द्वादश्यां श्राद्धमाचरेत् ।
दुर्मूतानाम्
चतुर्दश्यां विशेषेण दुर्मूतानां चरेस्क्रियाम् ॥७०६।।
- सुमङ्गल्याः सुमङ्गलीनां कथितं नवम्यां श्राद्धमेककम् । अश्रोत्रियकलत्राणां यावत्तद्भर्तृवर्तनम् ॥१०॥ प्राणिलोके ततस्तत्तु कुर्याद्वा न तु वा द्वयम् । एतदस्ति ह्यनुष्ठानं सकृन्महालये तु चेत् ॥११॥ यावत्पैतृकधर्माः स्युस्तुलितस्तेन स स्मृतः। अतीतो यदि पक्षः स तद्भिन्नेऽपरपक्षके ॥७१२॥ तदन्यस्मिन् तादृशे वै तदन्यस्मित् तथाविधे। यावत्तु वृश्चिकस्तिष्ठत् तावत्तत्तु समाचरेत् ॥७१३।। अदर्शने वृश्चिकस्य जाते तत्पितरः परम् । धनुर्मासे तु संप्राप्ते श्राद्धाकरणमीक्ष्य वै ॥७१४।। सद्यः शापप्रदानायोधु क्ता एव भवन्ति वै । तावदेव ततो भक्त्या श्राद्धं महालयाख्यकम् ।।७१।। विधिनैव प्रकुर्वीत न चेदोषो महान् भवेत् । येन केन प्रकारेण ततश्च श्राद्धमेककम् ॥७१६।। कुर्यादेव पितुः श्राद्धतुल्यं प्रत्यब्दमेव वै।
महालये परेऽहनि तर्पणम् प्रत्यब्दधर्मा निखिलाः सकृन्महालयस्य ते ॥७१७।।