________________
३०२२
आङ्गिरसस्मृतिः ख्यातो महालयः सद्भिः षड्विधोऽपि महालयः । एवमेव प्रकर्तव्यो नान्यथा तं समाचरेत् ॥७००||
___ सकृन्महालयः चरेद्यदि विशेषेण नानादैवतकेन वै । सकृन्महालयः सोऽयं स भवेत्किं तु स स्मृतः ॥७०१।। गयाश्राद्धसमः कोऽपि कथितः परमो महान् । अनिर्वाच्योऽखिलः शास्त्रैर्महाश्राद्धविशेषकः ॥७०२।। तादृशश्राद्धकर्तापि षड्दैवत्येन संयुतम् । नवदैवतकेनापि विष्णुना वा समन्वितम् ॥७०३।। धुरिलोचनसंयुक्त कुर्याच्छाद्धं महालयम् । सकृत्पक्षण वा पूर्वप्रोक्तपक्षेषु येन वा ॥७०४।। पक्षण केनचित्कुर्यात् स महालयकृद्भवेत् । न चेदयं गयाश्राद्धतुलितं यं च कंचन ॥७०।। पुण्यं श्राद्ध विशेषं वै कुर्यादेवेति सा श्रुतिः ।
महालयस्य भरण्यादीनां श्लाध्यत्वम् दिने दिने गयातुल्यं भरण्यां गयपञ्चकम् ॥७०६।। दशतुल्यं व्यतीपाते पक्षमध्ये तु विशतिः । द्वादश्यां शतमित्याहुरमायां तु सहस्रकम् ॥७०७।।
महालयकालः आषाढीमवधिं कृत्वा यस्याः पक्षस्तु पञ्चमः । महालय इति प्रोक्तः पितॄणां श्राद्धसंपदे ॥७०८।।