SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ आशौचकालनिर्णयवर्णनम् ३०१६ श्राद्धभेदेन विश्वेदेवाः तेषां च विश्वेदेवास्ते सत्यसंज्ञिकनामकाः । सर्वत्र वृद्धशब्दश्च प्रयोक्तव्यश्चतुर्ध्वपि ॥६७१॥ तथैव मातृवर्गेऽपि तार्तीयीके च वर्गके। जननक्रमतश्चेदं तेषामुच्चारणं भवेत् ॥६७२॥ एतद्विरुद्ध तत्सर्वं तद्विरुद्धमिदं परम् । निःशेषमिति बोद्धव्यं ते सर्वे देवताः किल ॥६७३॥ वसवः पितरोऽत्र स्यू रुद्राश्चापि पितामहाः। प्रपितामहाश्च कथिता आदित्या इति तद्गणाः ॥६७४।। सापिण्ड्यनिरूपणम् एतत्त्रयात्पूर्वकस्य चतुर्थस्य सकृत्किल । श्राद्धस्य करणं प्रोक्त पाथेयाख्यस्य सूरिभिः ॥६७।। तदेवं सप्तपूर्षाख्यं सापिण्ड्यस्य निरूपणम् । आशौचं च दशत्रिदिनमेकदिनम् तावत्तु सूतकं सर्व तज्जानां संप्रकीर्तितम् ॥६७६॥ समानोदकसंज्ञाश्च ततो भूयः सगोत्रिणः । तदूर्ध्व मिति विज्ञयं तेषां तत्सूतकं ततः ॥६७७।। त्रिदिनं चैकदिवसं पश्चात्स्नानं च बोधितम् । क्रमेणैव परं यावत्तावत्पर्यन्तमेव वै ॥६७८।। स्नानमात्रं च कथितं प्रसंगादिदमीरितम् । जीवच्छ्राद्धं तु तत्प्रोक्त सर्वश्राद्धविलक्षणम् ॥६७६॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy