SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ ३०१८ आङ्गिरसस्मृतिः . षड्दैवत्यस्तु दर्शः स्यादष्टका नवदेवताः । अष्टकासु च वृद्धौ च गयागां च मृतेऽहनि ॥६६२|| मातुः श्राद्धं पृथक् कुर्यादन्यत्र पतिना सह । पतिना सह कर्तव्यं पृथक्त्वेन कृते यदि ॥६६३॥ . तत्पैतृकमहासङ्गसौख्यविघ्नकरं भवेत् । पितृवर्गस्तु पूर्व स्यान्मातृवर्गस्ततः परम् ॥६६४॥ ततो मातामहानां च वर्गोऽयं तत्कलत्रतः । पित्र्येऽप्रदक्षिणम, शून्यललाटता च पितृवर्गो यत्र पूर्व तत्र स्यादप्रदिक्षणम् ॥६६५।। अपसव्यं तथा शून्यललाटं प्रभवेदपि । यत्र यत्राऽऽपसव्यं स्यात्तत्र तत्राऽप्रदक्षिणम् ॥६६६।। तथा शून्यललाटं च प्रधानाङ्गे च तत्स्मृतम् । तत्र गृहालंकारो न कर्तव्यः यत्रैतत्त्रितयं तत्र गृहालंकरणं न तु ॥६६७।। ___ मातृवर्गे प्रदक्षिणादि मातृवर्गो यत्र पूर्व तत्र स्यात्तु प्रदक्षिणम् । सव्यं पुण्ड्रललाटं च मङ्गलस्नानमेव च ॥६६८।। गृहालंकरणं चापि मङ्गलानि तथा पुनः । पितृणां च क्रमो मुख्यो भवत्यपि च सन्ततम् ॥६६६।। प्रपितामहपूर्व स्यात्तत्पितामहमध्यकम् । पित एव कथितं तदुच्चारणलक्षणम् ॥६७०।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy