________________
श्राद्धदेवतावर्णनम्
कुतपो वेदवचसा मुख्यः प्रोक्तो न चेतरः । सोऽपि यस्मिन् दिने सम्यग्दक्षिणायनकालकः ||६५३|| तमुत्तरायणे कुर्यादुत्तरायणमेव हि । कुतपस्य तु यत्र स्याल्लोभपूर्वं तथाचरेत् ||६५४॥ दर्श संक्रान्त्यादिश्राद्धानि तत्क्रान्तियुग्मश्राद्धादिकृत्यं सर्वं यथा लभेत् । औत्तरेयने सम्यक् कुतपेऽस्मिन् तथाऽऽचरेत् ॥ ६५५ || संक्रान्तिमात्राः कथिता अक्लृप्ता इति सूरिभिः । एवं धृतिश्च पातश्च षड्विंशतिक संख्यया ॥ ६५६।। कथिताः किल सर्वाण्यप्यक्लृप्तान्येव केवलम् ।
३०१७
महालयः
महालया बहुविधाः पूर्वं पञ्चदशेति वै ॥ ६५७|| षोडशैवेति केचित्तु दशेति च तथापरे । पञ्चैवेति त्रयं चेति एकमेवेति केचन ॥६५८|| षोढा ताः कथिताः सद्भिरष्टका द्वादश स्मृताः । यदेन्दुः पितृदेवत्ये हंसश्चैव करे स्थितः ॥ ६५६॥ याम्या तिथिर्भवेत्सा तु गजच्छाया प्रकीर्तिता ।
श्राद्धदेवताः
कर्माणि कानि ख्यातानि त्रिदैवत्यानि केवलम् ||६६०|| षडदैवत्यानि कानि स्युर्नवदैवत्यकानि च । तत्रादौ तु त्रिदैवत्यं मृताहस्त्वेक उच्यते ॥ ६६१।।