________________
३०१६
आङ्गिरसस्मृतिः सौम्ययाम्यायनद्वन्द्व विशेष इति वै जगुः । अतात्याप्राप्य तत्कालं पुण्यकाल उदाहृतः ॥६४३।। संक्रान्तिष्वखिलास्वेवं तत्कालः पुण्यदः स्मृतः । या याः सन्निहिताः नाड्यस्तास्ताः पुण्यतमाः स्मृताः॥६४४॥ अयने द्वे च विषुवे चतस्रः षडशीतयः । चतस्रो विष्णुपद्यश्च संक्रमा द्वादश स्मृताः ।।६४॥ त्रिंशत्कर्कटके नाड्यो मकरे विंशतिः स्मृताः। वर्तमाने तुलामेषे नाड्यस्तूभयतो दश ॥६४६॥ षडशीत्यां व्यतीतायां षष्टिरुक्ताः प्रणाडिकाः । पुण्यायां विष्णुपद्यां च प्राक् पश्चादपि षोडश ॥६४७।। अर्धरात्रात्तदूर्ध्व वा संक्रान्तौ दक्षिणायने । पूर्वमेव दिने कुर्यादुत्तरायण एव वै ॥६४८।।
अन्नश्राद्ध कुतपः यद्यत्तु पैतृकं कर्म श्राद्धमन्नेन चेत्पुनः। कुतपे तद्धि कुर्वीत तद्भिन्नस्य तु चेदयम् ॥६४६।। विधिः ख्यातो न सन्देहो धर्मविद्भिः सनातनैः ।
ओदनश्राद्धमात्रस्य संक्रान्तीनां च कृत्लशः ॥६५०।। द्वादशानां तथान्येषां कुतपो मुख्य उच्यते । तद्भिन्नस्नानदानादितर्पणादिषु ते स्मृताः ॥६५१॥ तदा तदा तु विहिता एते कालविशेषकाः। श्राद्धकर्तस्तु सर्वत्र कृतिनः काल एककः ॥६५२॥