________________
३०१४
आङ्गिरसस्मृतिः क्रियते कृतिना तत्तु भूतले येन केनचित् । तेनाप्युदकमात्रेण श्राद्ध नापि कृतेन वै ॥६२३।। सर्वाण्यपि कृतान्येवेत्येवं . सर्वैकनिश्चयः । स दर्शस्ताहशस्यानुष्ठाता यो ब्राह्मणोत्तमः ॥६२४।। अग्निहोत्री स एव स्यादर्शयाज्यक्षयाज्यपि । सोमयाजी सर्वयाजी तत्त्यागी ब्रह्मघातकः ॥६२।। स एव कर्मचण्डालस्तमेनं ब्रह्मघातकम् । दृष्ट्वा समागतं पापं वाङ्मात्रेणापि नार्चयेत् ॥६२६।। प्रकृतिश्राद्धमात्रश्च दर्श एव न चापरः । पितृयज्ञमुखादेव प्रकृतित्वं तदीरितम् ॥६२७।। तत्रैव विहितोऽयं हि पितृयज्ञः श्रुतीरितः ।
दर्शाब्दिको तुल्यौ दर्शो मृताहश्च समौ न कदाचित्तु शक्यते ॥६२८।। येन केनापि वा त्यक्तुं तत्त्यागी चेत्पतत्यधः । पित्रोताहस्त्वन्नेन कार्यः स्यात्तु न चान्यतः ॥६२६। न हेनान्नेन होमेन पिण्डदानेन मन्त्रतः । अक्षेण शष्पैर्मन्त्रैर्वा न दुःखेन तदाचरेत् ॥६३०; किं त्वमौकरणाद्ब्रह्मभोजनात्पिण्डदानतः । कृतं भवति तत्कर्म न. चेच्चण्डालतां ब्रजेत् ॥६३१।।
. दर्शाब्दिको न त्याज्यौ मृताहोऽलङ्घनीयः स्यादर्शश्चापि तथाविधः। , येन केन प्रकारेण शक्यते किल दुर्बलैः ॥६३२।।