________________
दर्शश्राद्धवर्णनम्
३०१३ कीर्तितानि द्वादश हि मिलित्वैतेऽखिलान्यपि । अष्टोत्तरशतानि स्युः श्राद्धानि विहितानि वै ॥६१३॥ प्रतिवर्ष प्रयत्नेन ब्राह्मणस्य महात्मनः । अमावास्यास्तत्र क्लृप्ता मासान्ता नित्यमेव वै ॥६१४।। अत्रैव पितृयज्ञश्च कर्तव्यत्वेन चोदितः । श्रुत्युक्तोऽयं पितृणां स्यादतितृप्त्यैककारकः ॥६१।। श्राद्धानां प्रकृतित्वेन चोदितः स्मृतिकर्तृभिः । नैतस्मात्तु परं श्राद्धं विद्यते यत्र कुत्रचित् ॥६१६।। श्रुत्युक्तमेतदेव स्यादेतन्मात्रे कृते तु चेत् । सर्वाण्यपि कृतानि स्युरथवैतदिने तु यैः ॥६१७।। श्राद्धं वै क्रियते तद्वा प्रकृतिश्चेति वै जगुः । इतरैः सर्वपित्र्याणां श्रुतितो ब्रह्मवादिनः ॥६१८॥ यदनुष्ठानतः सर्वानुष्ठानं जायतेतराम् । तदेव प्रकृतिः प्रोक्ता हि कैश्चिद्ब्रह्मवादिभिः ॥६१६।।
दर्शश्राद्धम् . दर्शानुष्ठानतः सर्वश्राद्धानि स्युः कृतानि वै। इति सर्वे त्रयो लोकास्तूष्णीं तिष्ठन्ति केवलम् ॥६२०।। न केनापि च तस्मात्तु दर्शः संत्यज्यते परः । दर्शमात्रेऽनुष्ठितेऽस्मिन् येन केन प्रकारतः ॥६२१।। सर्वाण्यनुष्ठितानि स्युरिति वै लोकसंस्थितिः । न तत्र साक्षाच्छाद्धं च क्रियते येन केन वा ॥६२२॥