SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ • पनसस्तुतिवर्णनम् ३०११ गुरुप्रियो विनीतश्च सततं गुरुवत्सलः । अवलेपैकरहितश्चाद्यप्रभृति भूतले ॥५६२।। दैविकेषु च पित्र्येषु कल्याणेषु नवेषु च । नैमित्तिकेषु नित्येषु काम्येषु सकलेप्वपि ॥५६३। कृत्स्नक्रियाविशेषेषु वालवृद्धातुरादिषु । नित्ययुक्तः सदा योग्यः शलाटूनां दशासु च ॥५६४। दशास्वेवं फलानां च शाश्वतो भव शाश्वतः । पितृणां सर्वदात्यन्तं वल्लभः परमो भव ॥५६५!। वसन्तमाधवस्य त्वं ग्रीष्ममृत्युंजयस्य च । महावर्षाः मततन्तुः शरत्काल्यस्तथा पुनः ॥५६६। हेमन्तवनराजन्यः शिशिरः शीतलः शिवः। सुखाकरः शुभकरो नित्यकल्याणकारकः ॥५६७। प्रथितो भव सर्वेषां पानसैराम्रकैः शिवः। रम्भाभिस्तुलितो भूयः कदाचिदधिकस्तथा ॥५६८॥ विद्वत्स्तुत्यो राजमान्यो त्वज्जातीयकपोडशः। संग्राह्यो भव सर्वत्र सर्वनेत्रप्रियोऽनिशम् ॥५६६।। सर्वदा सर्वसंवृद्धो भवोर्वारोऽतिवर्धितः । मरुत्कृतौ तु त्वद्वीजविक्षेपणमुखादितः ॥६००। फलबीजसमुत्पत्तिपर्यन्तं किल सर्वदा।। तदिष्टित्रयतः शुद्धो महान्मन्त्रपरिष्कृतः ॥६०१ । त्रयस्त्रिंशत्कोटिसंख्यदेवानां वल्लभो भव । इति स्तुतः पृजितश्च शासितो विहितोऽनघः ॥६०२।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy