________________
३००६
का
.
कारस्यश्लाध्यत्ववर्णनम् नाकिनां पुरतो भूयः प्रहसन् वाक्यमब्रवीत् ।
रोदनम् यन्माहात्म्यसुमहतो जन्मसिद्धातिसुश्रियः ॥५७२।। दृष्ट्वा विभूतिं परमामसहन्नेव केवलम् । तत्साम्यमिच्छुरारान्मे रोदनं कृतवानसि ॥५७३।। तस्मादेतत्प्रभृति ते भुवने ये दरिद्रतः । श्राद्ध ककरणाशक्ता अष्टोत्तरशतेष्वपि ॥५७४।। श्राद्धषु केषुचित्कालविशेषेषु कथंचन । रोदनाच्छ्राद्धकरणफलं ते प्राप्नुयुः परम् ॥५७५।।
कारस्य श्लाध्यत्वम् यस्मादत्यम्लवचनं मत्पुरः प्रोक्तवानसि । देवानां शृण्वतां चापि तस्मात्त्वं श्राद्धकर्मसु ॥५७६।। नित्याम्लयुक्तो वर्तस्व कार रे रे कृती भव । कारवल्ल्यादयो यूयं स्वेषां कण्टकसाम्यतः ॥५७७।। तत्साम्यचेतसो यस्मादङ्गीकुर्मश्च सांप्रतम् । युष्मान् श्राद्धषु सर्वेषु तद्योग्या भवतैव वै ॥५७८॥ तत्साम्यं तत्त्रयस्यैव मिलित्वैव पृथङ् न तु । नित्यं शाकसहस्रस्य बृहत्यादेस्तु वो न तु ॥५७६।। युष्माकं श्राद्धयोग्यत्वमात्रं मद्वचसा मतम् । सकण्टकबृहत्यस्ता मनसा पूर्वमेव वै ॥५८०।। साम्यं कण्टकतस्तस्य पनसस्य त्वकामयन् । युष्मदीयमिमं वृत्तं ज्ञात्वा तूष्णीं व्यवस्थिताः ॥५८१॥ १८६