________________
३००८
आङ्गिरसस्मृतिः तानि स्वकरतः शीघ्र कृत्वा पत्रपुटं त्वरन् । कस्मैचिद्विप्रपुत्राय पात्राय जलकांक्षिणे ॥५६१।। समुधु क्ताय पातुं तज्जलं भूमिगतं कथम् । पास्यामि सलिलं वेति समालोकयतेतराम् ॥५६२।। पिबत्यनेकत्तरसा पितृप्रीत्यै पितृन् महान् । स्मृत्वा ददौ तदा तेऽऽपि समागत्यातिसत्वरम् ॥५६३।। तावन्मात्रेण संतुष्टा गयाश्राद्धशताधिकात् । अतिहषं गताः सद्यस्तमेनं भूरितेजसम् ॥५६४।। आशीभिश्च प्रशस्ताभिः प्रत्यक्षेणैनमीक्ष्य ते । परं तृप्ताः स्मेति चोक्त्वा त्वं कृतार्थो महानसि ।।५६५।। शास्त्रार्थधर्मतत्त्वज्ञस्त्वमस्मत्परितृप्तिकृत् ।। इत्युक्त्वाऽऽभाष्य ते तेन तत्पदं चक्रपाणिनः ॥५६६।। पश्यतस्तस्य पुरतो जग्मुः किल सुरोत्तमैः। प्रार्थनीयं विशेषेण सोऽयमेतादृशो महान् ॥५६७।। पितृणां पनसः श्रीमान् वल्लभः परमो महान् । कारश्च कारवल्लीकः कारुकः कालिको करुत् ॥५६८।। पञ्चैते ब्रह्मपुरतो देवानां शृण्वतां तदा।। इदमूचुर्वचो दुःखादस्माकमपि सन्ति हि ॥५६६।। कण्टकानि ततो भूयः खराणि सुमहान्त्यपि । त्वमस्माकं तु तत्साम्यं किमर्थ नाकरोविभो ॥५७०।। इत्येवमतिदैन्वेन पौनःपुन्येन केवलम् । रुरुदुः किल दुःखार्तास्तानेतांस्तादृशान्विभुः ॥५७१।।