________________
श्राद्ध पनसस्यावश्यकवावर्णनम् ३००७ सद्य एव ब्राह्मणेभ्यो लब्धमात्रे च तत्फले । दृष्टमात्रेऽथवा भक्त्या दद्याद पितृतप्तये ॥५५०।। शलाटुं पानसं पत्रं फलं दृष्ट्वा तु यो नरः। पितृतप्तिमकृत्वैव तूष्णीं तिष्ठेन्महाजडः ॥५१॥ तं तस्य पितरः सर्वे शपन्ति किल कोपतः। दृष्टमात्रे तु तस्मात्तु पानसद्रव्यमुत्तमम् ॥५५२।। येन केनाप्युपायेन पत्रेण च फलेन वा। शलाटुना छायया वा पितृतृप्तिनिमित्तकम् ॥५५३।। यत्किचिदपि वा तेषु ब्राह्मणेभ्यः प्रदापयेत् । तावन्मात्रेण पितरो नित्यतप्ता भवन्ति वै ॥५५४।। एवं सत्यत्र यः कश्चिद्भाग्यवान् पनस्री नरः । तद्रव्यैरनिशं भक्त्या तृप्त्यकृत् कातकी भवेत् ।।५५५।। गालवस्तु पुरा विप्रो दृष्ट्वा बीजानि भक्तितः । क्रयेण पञ्चषान् गृह्य पितृप्रीत्यै बुभुक्षितः ॥५५६।। स्वयं पत्न्या भक्षयित्वा पितृतप्ति चकार है। तावन्मात्रेण ते चापि परं तृप्ताः शताब्दकात् ॥५५७।। आनन्दसागरे मना बभूवुरिति नः श्रुतम् । पुरा कुशवने पुण्ये माण्डव्यो वेदवित्तमः ॥५५८।। महाविन्ध्याटवीमार्गे पनसं कार्तिकेऽवशात् । दृष्ट्वाकं च नतस्तूष्णी समालोच्य क्षणात्परम् ॥५५६।। तत्पत्राणि पवित्राणि पतितानि भुवः स्थळे । . दृष्ट्वा समादायैतानि निपुणः सर्वकर्मसु ॥५६०।।