________________
३००६
आङ्गिरसस्पतिः भागीरथी फल्गुनी च यमुना च सरस्वती । पितृसूक्तानि सर्वाणि वैष्णवानि विशेषतः ॥५३६।। रक्षोन्नानि पवित्राणि पुनरन्थे तथाविधाः । श्राद्धद्रव्यविशेषाः स्युः पितृणामतिवल्लभाः ॥५४॥ ते सर्वे पनसस्त्वेकः सुमहाक्षयकारकः । एतस्मिन् पनसे लब्धे सर्वश्राद्धनिदानके ॥५४१।। मृताहदिवसे पुण्ये नित्यतृप्ताः सुतोपिताः पितरस्तुन्दिलाः सद्यो भवन्त्येवेति सा श्रुतिः ॥५४२।। एवं सत्यत्र यो मर्त्यः पनसस्थापको हृदा । मत्याऽमत्याथवाऽतीव भक्त्याऽभक्त्याथवा पुनः ॥५४३।। ज्ञानेनाऽज्ञानतो वाऽपि भूतले यत्र कुत्रचित् । स एव कथितः सद्भिर्गयाश्राद्धसहस्रकृत् ॥४४॥ पनसं सहकारैश्च कदल्यादिद्रुमैः सह । स्थापयित्वा विधानेन पत्नात्संबधितैः शिवः ॥५४५।। चम्पकैः पाटलौभिश्च मधूकैः सुमनोरमैः । चन्दनैः स्वन्दनैनींपैस्तच्छायाभिश्च तत्फलैः ॥५४६!! पत्रैः पुष्पैश्च तत्काष्ठेर्नानाशाकविशेषकैः । कुर्वन् स्ववृत्या प्रयत्न कुलकोटिसहस्रकैः ॥५४७।। ब्रह्मलोकमवाप्येह तत्सायुज्यमवाप्नुयात् । । पनसं यत्र कुत्रापि दृष्ट्वा सद्यो महामनाः ॥४८॥ तत्काष्ठपत्रकुसुमशलाटुफलमुख्यकैः । येन केनापि वा तृप्ति पितॄणां तां समाचरेत् ॥५४६।।