________________
३००२
आङ्गिरसस्मृतिः तस्वास्य दिव्यरूपस्य पितृप्राणैकरूपिणः । सर्वदेवस्वरूपस्थ सर्वमन्त्रमयस्य च ॥४६८॥ सर्वयज्ञमहातीर्थसरिदग्निसुवर्मणः । निखिलागमशास्त्रौघव्रतकृच्छामृतान्धप्ताम् ॥४६६।। निधानस्य पवित्रस्य पित्र्याकर्षणवर्मणः । स्थापनं क्रियते येन तच्छायापत्रमूलकैः ॥५००।। फलैः शलाटुभिर्वापि काष्ठेश्छाय भिरेव च । क्रियते पितृतृप्तिः स्याद्बुद्धिपूर्वमबुद्धितः ॥५०१।। तस्य पुण्यफलं वक्तुं गुरुणा ब्रह्मणापि वा। शक्यं वर्षसहस्रण फणिराजेन वा न तु ॥५०२॥ पुरा किल पितृतृप्तिहेतवोऽखिलशाककाः । तपस्तप्त्वा वरेणाऽथ ब्रह्मणः पनसं श्रिताः ॥५०३।।
अलकश्राद्धम् अलकालर्ककारूषाच्युतचूताजरामराः। सप्तस्वेतेष्वच्युतश्चेदलर्कश्चाजरास्त्रयः ॥५०४॥ प्रतिमासजभेदेन स्मृता द्वादशजातयः । अतः षट्त्रिंशत्कसंख्या तस्मादेतत्त्रयस्य च ॥५०।। एतेषां मासजानां स्यादेकजातिशलाटुतः । तद्भिन्नैकादशानां च शलाटुफलभेदतः ॥५०६।। द्वविध्यं किल संप्राप्त शलाटोरपि वै मुहुः । आर्द्रशुष्कप्रभेदेन द्वविध्यं समुपागतम् ॥५०७।।