SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ३००० आङ्गिरसस्मृतिः सान्निध्यं मृतिकाले तु द्वितीयादिसुतस्य वा। परलोकानुकूला या मृतस्य प्रभवेत्तथा ॥४७६।। तक्रिया मन्त्रपूर्वैवं मृतस्य प्रभवेत्तथा । एवं स्याद्ग्रहणश्राद्धं गयाश्राद्धमथापरम् ॥४८०॥ तृप्तिदं फाल्गुनीश्राद्धमष्टोत्तरशतैरुत । शाके श्राद्धं यत्क्रियते तदेकमध तारकम् ॥४८॥ गौरीदानं पितृतृप्तिकरम् गौरीदानं वृषोत्सर्गः पाक्षिकोऽयं महालयः । स्थापनं पनसाख्यस्य तानीमानि स्मृतानि हि ।४८२।। पितृणानपि सर्वेषां वल्लभानीति वै जगुः । जकारपञ्चकं वत्सः परलोकगतस्य तत् ॥४८३।। तृप्त्यै संतरणायापि प्रोवाचैवं न चेतरत् । जकारपञ्चकम् जलाधं जाह्नवीतीरं जनार्दनमहास्मृतिः ॥४८४|| ज्वलनो जननोत्पन्नसुतसान्निध्यमेव च । जकारपञ्चकं प्रोक्त कथितं जन्ममोचकम् ॥४८॥ ग्रहणश्राद्धलक्षणम् ग्रहस्पर्शादथ यतन् सद्यः पल्यादिभिर्वृतः । तदान्नेनैव यच्छाद्धं करोति पितृप्तये ॥४८६।। स्नात्वा तेनैव विधिना तद्ग्रहश्राद्धमुच्यते । तदेतत्किल देवेशो भगवान् भूतभावनः ॥४८७।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy