SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ २६६४ आजिरसस्मृतिः सत्यौरसे तत्समोऽयं प्रभवेदिति वै मनुः । दौहित्रो यदि दत्तः स्याद्भातृजो बा तथाविधः ॥४२०॥ औरसेनैव तुलितौ सततं धर्मतत्परौ। दत्तस्य पितरौ प्रोक्तौ ग्राहकावेव संततम् ॥४२१॥ पितृत्वमपि दत्तेन तिष्ठज्जनकयोन तु। दानहोमात्परं तस्मात्पितरावस्य तौ मतौ ॥४२२।। पितृत्वमपि मातृत्वमेकत्रैव हि तिष्ठति । न तिष्ठति तदन्यत्र क्रियाशतसहस्रकात् ॥४२३।। पितृत्वं मातरि गतमेकशेषजमल्पकम् । यथा न तत्कार्यकरं मातृत्वमपि तत्तथा ॥४२४।। पितृव्यपत्न्यादीनां स्यात्तादृक्पत्नीत्वमेव हि । तासां भवति तस्मात्तु न तन्मातृत्वमुच्चरेत् ॥४२॥ प्रजापतिभ्यो ह्यभिमानसूनुः पितृव्यसूनुस्त्वथवा सगोत्रः । ज्येष्ठः कनीयान्न भवेत्तथैको . च भिन्नगोत्रो न सगोत्रविद्विट् ॥४२६।। सगोत्र्यसंमतः सूनुर्यः कश्चन समागतः । पुत्रत्वेनोदरपरो नाभिमानसुतो भवेत् ॥४२खा धर्मपत्नीसुतो वर्णी द्वितीयादिसुतो गृही। जातपुत्रोऽप्याहिताग्निर्न समस्तेन वणिना ॥४२८॥ धर्मपत्नीसुतो बालो द्वितीयादिसुतो युवा। आहिताग्निर्दशसुतो न समस्तेन चोदितः ॥४२६।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy