________________
२६६०
आङ्गिरसस्मृतिः प्रमादेन ह्य पनयेत् स्यातां तौ पतितौ ध्रुवम् । न तयोर्द्वन्द्वभावोऽस्ति कदाचित्तु परस्परम् ॥३८२।।
मृतभार्ययत्यादिपुत्रग्रहणम् मृतभार्यो यतिवर्णी विश्वस्ता दूरभर्तृका। पुत्रं न प्रतिगृह्णीयाद्रभार्योऽपि सूतकी ॥३८३।। अधिकारो मिलितयोर्दम्पत्योरुभयोरपि । कदाचिन्न पृथक्त्वेन तद्दाने तत्प्रतिग्रहे ॥३८४।। सूतिप्रजननस्थानापन्नयुग्मद्वयस्य चेत् । वस्तुनो मेलनं पुत्रदानं तद्ग्रहणं भवेत् ॥३८॥ सूतिप्रजननस्थानयुग्मद्वन्द्वमनःसुखम् । अचञ्चलं स्थिरं तुष्टं चेन्मनस्तच्चरेन्ननु ॥३८६।। दम्पती दम्पतीचित्तं तुष्टं कृत्वाम्बरादिभिः। कृत्वा च शपथं गाढं भविष्यत्कार्यहेतवे ॥३८७।। साक्षिणां पुरतो नूनं देवब्राह्मणसन्निधौ। राशे बन्धुनि चावेद्य गृह्णीयातां सुतं ततः ॥३८८॥
तत्काले प्रतिज्ञाय तदकरणे शपथानन्तरं कालान्मर्यादा था कृता पुरा ।
नरोस्तानुल्लङ्घयत राजा राष्ट्रात्प्रवासयेत् ॥३८६।। पत्रीषु सुतस्वीकारकाले या सन्निहिता सा माता, अन्या सपत्नीमाता
सुतस्वीकरणे याऽऽरास्थित्वा साऽम्बास्य वै भवेत् । सापकी जननी दूर स्थिवा भवति नान्यथा ॥३६॥