________________
भ्रातूपुत्रस्वीकृतौ दत्तस्य समांशः २६८६ तिरस्कुर्वन्ति सहसा ता वै निरयभाजिनः । भर्तुः पितुर्वा यद्वाक्यं तदा पूर्वमुदीरितम् ॥३७३॥ पत्नी पुत्रोऽथवा मौादनृतं मौय॑चोदितम् । दुःश्रुतं परुषं क्रूरमस्मत्कार्यविरोधि तत् ॥३७४।। नाप्यकुर्म स्वीकरणमिति वक्तृन् दुरात्मनः । न्यकृत्य वाचा धिक्कृत्य ताडयित्वा कपोलयोः ॥३७॥ शीघ्र प्रवासयेद्देशात् साधूनू सम्यक् प्रपूजयेत् ।
भ्रातपुत्रस्वीकृतौ दत्तस्य समांशः स्वीकृतभ्रातृसुनोश्च पश्चाजातौरसस्य च ॥३७६।। समभागः सदा प्रोक्तस्तदन्यस्य पुनर्यदि ।
सगोत्रस्य तुरीयभागः । तुर्यभागः सगोत्रादेरेवमाह पितामहः ॥३७७।। औरसो वयसा न्यूनो ज्येष्ठ एव न संशयः । नष्ट तु पालके ताते स्वीकृतो वयसाधिकः ॥३७८।। उपनीतः कलत्री वा जातपुत्रोऽथवा यजन् । यत्नाच्च तं नोपयेहत्तो जातं तदौरसम् ॥३७६।। कनिष्ठो धर्मतो दत्तो ह्यप्ययं वयसाधिकः । न्यूनोऽपि वयसा ज्येष्ठः औरसो नात्र संशयः ॥३८०।।
दत्तनौरसे उपनीते तस्मादत्तः स्वयं पश्चाजातं धर्मेण पूर्वजम् । धमन्यूनो नोपनयेद्यदि मोहेन तादृशम् ॥३८॥