SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ विवाहे गोत्रद्वयत्यागवर्णनम् २६८५ नैकस्य तनयास्ते स्युस्तस्मात्तेषु तथाचरेत् । ___ अन्येषु सुतग्रहणम् दुर्लभे(षु) तु सगोत्रेषु सपिण्डेषु सुते यदि ॥३३६।। सुतं बन्धुषु वान्येषु गृह्णीयादन्यजातिषु । सवर्णेषु ग्रहणम् सवर्णेष्वेव कुर्वीत नासवर्णेषु तद्ग्रहम् ॥३३७।। असवर्णेषु तत्कुर्वन् सद्यः पतति वर्णतः । असगोत्रस्वीकृतौ । गृहीत असगोत्रश्चेत्तनयः पुरुषत्रयम् ॥३३८।। कृतार्थतां प्रापयति तत्कुलं तदनन्तरम् । संकीर्णमवशाद्याति यत्नतश्चेत्तरिष्यति ॥३३६॥ असगोत्रस्तु न ग्राह्यो गृहीतुः (तः) स्यात्स एव हि । दत्तो रिक्थमवाप्नोति सन्ततितुरेव हि ॥३४०।। तस्माद्दत्तसुतः स्वस्वतनयानुद्भवान् ततः। जनकस्यैव गोत्रे तान् मौज्यां मन्त्रैः प्रवेशयेत् ॥३४।। यदि दत्तस्वतनयान् स्वगोत्रे न प्रवेशयेत् । दत्तजो वाथ तज्जो वा तद्गोत्रद्वयजास्तु ते ॥३४२।। विवाहे गोत्रद्वयत्यागः एवं सत्यत्र जनने जातानां पाणिपीडने। समागते तदा सम्यग्यत्नाद्गोत्रद्वयं त्यजेत् ॥३४३।। तद्गोत्रद्वययुक्त्यर्थज्ञानाय किल तत्परम् । तज्जातानां विवाहस्य तदार्षद्वयमाचरेत् ॥३४४॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy