SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ २६८४ आङ्गिरसस्मृतिः पुत्रसंपादनं धीमान् दुर्बलश्चेद्विशेषतः। . वृत्तिदत्तादयः वृत्तिदत्तं कल्पयेद्वा मौञ्जीदत्तमथापि वा ॥३२६।। विवाहदत्तमथवा यज्ञदत्तं न चेत्परम् । वृत्तिदत्तः कुलान्यष्टौ मौञ्जीदत्तस्तु षोडश ॥३२७।। विवाहदत्तो द्वात्रिंशद्यज्ञदत्तस्तरिष्यति। चतुः षष्टिकुलान्यस्य लीलया सद्य एव वै ॥३२८।। अपुत्रदत्तवृत्या यः प्राणवृत्तिं चरत्यलम् । वृत्तिदत्त इति ख्यातस्तनयः पुण्यलोककृत् ॥३२६॥ धनतो यस्य यो लोके झु पनीतो भवेदहो। स मौञ्जिदत्त इत्याख्यस्तनयस्तु ततोऽधिकः ॥३३०।। एवमेव भवेदन्यस्तनयः परलोकदः। विवाहदत्तसंज्ञः स्यात्ततोऽपि द्विगुणः परः ॥३३१॥ ततोऽधिको यज्ञदत्तस्तनयः पितृवल्लभः । त एते तनयाः सर्वे तत्तत्कमकपूर्तये ॥३३२॥ कृतेन धनदानेन भवन्ति किल नान्यथा । तस्मात्सन्तः किलैतेषां कर्मणामेकतो धनम् ॥३३३॥ न गृह्णन्ति महात्मानो परलोकदिदृक्षवः । कणशः कणशः सद्भयः प्रतिगृह्य ततस्ततः ॥३३४।। शनैः शनैश्च कालेन महता तानि चाचरेत् । एवं कृतेषु तेष्वेषु महत्सु किल कर्मसु ॥३३५।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy