________________
२६८६
आङ्गिरसस्मृतिः
अभिवन्दनादौ द्विगोत्रत्वम् नित्याभिवन्दने सन्ध्यावन्दने काम्यवन्दने । कृत्स्नायं त्वेकगोत्रे परस्मिन्नपि गोत्रके ॥३४॥ स्वीकृत्यार्षद्वयं तेन योजयित्वा ततः परम् । एकमेव वदेद्गोत्रमेकद्विव्यापकं तथा ॥३४६॥ पञ्चसप्तापकं वैतन्नवैकादशकार्षकम् । गोत्रमेकं भवेदेवं त्रयोदशकमार्षकम् ॥३४७|| एवं पञ्चदशाषं च गोत्रं तत्प्रभवेदपि। एवं जातानि गोत्राणि दत्तावृत्त्युद्भवानि वै ॥३४८।। वर्तन्ते भूतले तस्माद्गोत्रिणस्तान्विचार्य च। पृष्ट्वा तत्संशयस्त्याज्य एतावन्त्येव भूतले ॥३४६॥ गोत्राणि शास्त्रसिद्धानि चैकायाणि कानिचित् । द्वचर्षेयाणि त्र्यार्षेयाणि पञ्चायाणि सन्ति हि ॥३०॥ एतावन्त्येव सर्वत्र शास्त्रसिद्धानि नेतरत् । आद्यदत्तैकतद्दत्तपारम्पर्येण केवलम् ॥३५१॥ दृश्यन्ते ब्राह्मणाः सप्तदशायावधीतरे ।
दत्तजादीनां पूर्वगोत्रम् तस्माद्दत्तजपुत्रांस्तान् पूर्वगोत्रे प्रवेशयेत् ॥३५२।। विना प्रवेशं यदि ते परं प्राप्तैकगोत्रिणः । यदि स्युर्मोहतः पश्चात्पूर्व तज्जनकस्य च ॥३५३।। गोत्रं वज्यं विवाहादावेवं सत्यत्र कालतः। अज्ञात्वा पूर्ववृत्तान्तं गोत्रे तज्जनकस्य च ॥३५४।।