SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ २६८२ आङ्गिरसस्मृतिः मौज्यन्तेनातिहर्षेण सर्वमत्या समन्त्रतः । पुत्रो ज्ञातिमतो दत्तः कृतसर्वपितृक्रियः ॥३०॥ यदि स्वयं तदा सर्वी तवृत्तिं लभते पराम् । सर्वस्य प्रतिमन्त्रस्य पितृहेतुप्रपाठनात् ॥३०८॥ दत्तस्य तद्भूलाभः स्यात्तत्पूर्व सा न सिध्यति । हिरण्यकक्ष्यामन्त्राणां पठनात्तत्त्रयं पुनः ॥३०६।। प्रदूरीकृत्य तज्ज्ञातीनवशादेति चाखिलम् । दत्तसूनुः पित्रान्येन संस्कृतो यदि तद्वृतः ॥३१०।। तदा तु तद्धनं सर्व ज्ञातिसाधारणं भवेत् । स्वयमेव पितुर्दत्तः कर्म कुर्यात्प्रयत्नतः ॥३११॥ तद्धनं तु न चेत्सद्यस्तज्ज्ञातिगतमेव वै। दत्तोऽयमसगोत्रश्चेत्सदा दुर्बल एव वै ॥३१२।। भवेदेव न संदेहः शास्त्रेऽमुत्र परत्र च। . यदि जामी तत्र भवेत्तन्मुखं नावलोकयेत् ॥३१३।। अवश्यं पुत्रसंग्रहः कर्तव्यः यथाकथंचित्पुत्रस्य संग्रहः कार्य एव वै। दौर्बल्ये स्वस्य संजाते धर्मज्ञेन महात्मना ॥३१४।। जलबुबुदसंकाशं वष्म॑तत्कथितं बुधैः । न हि प्रमाणं जन्तूनामुत्तरक्षणजीवने ॥३१।। तस्मादात्महितं नित्यं चिन्तयन्नेव तच्चरेत् । अपुत्रस्य लोको नास्ति नापुत्रस्य तु लोकोऽस्ति पुत्रिणस्तु त्रिविष्टपम् ॥३१६।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy