SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ मातापितृभ्यांपितुःदानं प्रहणञ्च २६८१ तैस्तैस्ते निखिला ज्ञेया नृभेदेन विवक्षिताः । प्रस्तास्तके सकामिनिष्कामिनोः सोमं प्रस्तास्तगं सूर्यमपि वा शास्त्रदृष्टितः ॥२६८।। मुक्त ज्ञात्वा ततः स्नात्वा निष्कामो भोजनं चरेत् । शुभ्रांशुचण्डांशुलोककामी चेन्न तु भोजनम् ॥२६॥ चरेदेव न संदेहस्तल्लोकाकामिनः परम् । दोषाय भोजनत्याग एवमाह प्रजापतिः ॥३००। अग्निहोत्रम् विहितस्य परित्यागादग्निहोत्रस्वरूपिणः । पीतमातृस्तनरसो जनकाशौचमोचने ॥३०॥ सहिष्णुर्न भवेत्तस्मात्तत्पूर्व तत्समाचरेत् । दत्तपुत्रः आरान्न्यक् सोदरसुतस्तर्णकः कर्मवर्जितः ॥३०२॥ कृतकर्मत्रयकृतो यो दत्तः प्रवरः स्मृतः। मातापितृभ्यां दानं ग्रहणं च दद्यातां दम्पती पुत्रं गृह्णीयातां च दम्पती ॥३०३।। तयोरेवाधिकारोऽयं तदाने तत्प्रतिग्रहे । ब्राह्मणानां सपिण्डेषु कर्तव्यः पुत्रसंग्रहः ॥३०४॥ सगोत्रेष्वथवा कार्यो ह्यन्यत्र तु न कारयेत् । असंस्कृतो दत्तसूनुः पितुश्चाप्यकृतक्रियः ॥३०।। न तद्धनमवाप्नोति तवृत्तौ का कथा पुनः । जातकर्मादिना तस्य पुत्रत्वं नान्यथा मतम् ॥३०६।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy