________________
२६८०
आङ्गिरसस्मृतिः
अधिकारप्रभेदेन भोजनस्य निरूपणम् । यदेतत्तस्य सर्वस्य प्रवदामि विनिर्णयम् ॥ २८८ ॥ तत्कालाजीर्णराहित्ये हृदयं तन्निबोधत । एवं स्थिते पुनर्वच्मि यामतः सार्धयामतः ॥ २८६ ॥ जीर्णशक्तिमतो नुश्चेत्तत्काले क्षुद्भवेद्यदि । न दोषः कथितः सद्भिः कदाचिद्द वयोगतः ॥२६०|| अजीर्णः स्यात्तदा दोषः सुमहान् प्रभवेदपि । तस्माद्यामद्वयं सर्वैर्भुक्तिस्त्याज्या विचक्षणैः || २६१||
अत्यन्तातुरादीनाम्
॥ २६२॥
विशेषः कोऽपि भूयश्च प्रोच्यते सुमहान् परः । रोगिणोऽप्यतिमात्रस्य चौषधातिक्षुदनतः क्रूरप्रहातितप्तस्य पिशाचावेशिनस्तथा । वश्याकर्षणविद्वेषस्तम्भनोच्चाटनादिभिः || २६३|| पीडितस्य विशेषेण मूर्छितस्यातिताडनैः । तत्कालभक्षणमपि न दुष्यति कदाचन अत्युत्क्रान्तिप्रवृत्तस्य चिरत्यक्तान्धसस्तथा । अप्राशनोत्पन्नमृतिसंशयस्य विशेषतः ॥ २६५॥ तत्कालभक्षणावृत्तिर्न दोषाय भवेदयम् ।
।।२६४||
सर्वेषामपि वर्णानां सर्वाश्रमनिवासिनाम् ॥ २६६ ॥ मुरूयो साधारणो धर्मस्तत्कालाजीर्णशून्यता । यामत्रयादिकाः कालास्तत्र तत्र प्रचोदिताः ॥२६७॥