SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ गृहस्थस्य रात्रावुष्णोदकस्नानवर्णनम् २६७५ यो निवेदयते मोहाइवाय नरकी भवेत् । निवेदनप्रकारः तस्मादन्नं समुद्धृत्य पृथक्पात्रे निधाय च ॥२४२।। कृत्वा यत्नात्सुखोष्णं च राशिं कृत्वाभिघार्य च । अतिशुद्धमतिश्रेष्ठं राजयोग्यं सुशोभनम् ॥२४३।। शाकभक्ष्यफलोपेतं देवाय विनिवेदयेत् । तदन्नमपि यत्नेन पश्चाद्दद्यात्समाहितः ॥२४४|| अप्रोक्ष्यापरिषिच्यैवमप्राणाहुतिपूर्वकम् । उच्छिष्टमप्यकृत्वैव यत्नाद्दद्यात्स्वयं शुचिः ॥२४५।। स्वीकारप्रकारः निवेदितानि वस्तू न दन्तैः परिघट्टयेत् । न खण्डयेच्छब्दयेच किं तु तूष्णी तदम्बुवत् ॥२४६।। रसवत्फलवद्यत्नात् प्राशयेच्च न शब्दयेत् । कण्ठतो वापि यत्नेन काष्ठभूतफलान्यपि ॥२४७॥ अर्भकेभ्यो दद्यात् प्रदद्यादर्भकेभ्यो वै न स्वीकुर्यात्स्वयं यदि । स्वीकुर्यात्तु तदा नक्तमुपविष्टः शुचिस्थले ॥२४८।। शब्दानजनयन्नेव तालुदन्तादिभिह्य दन् । गृहस्थस्य रात्रावुष्णोदकस्नानम् गृही न रात्रौ स्नायीत यदि स्नायीत वारिणा ॥२४६।। उष्णेन भवने विप्रसाक्षितो वह्रिसाक्षितः । उष्णेन शक्तो न स्नायादशक्तश्चेत्तदाचरेत् ॥२५॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy