________________
२६७२
आङ्गिरसस्मृतिः तत्त्वं तस्यास्तु विज्ञाय प्रायश्चित्तं ततश्चरेत् । यत्र यत्र च सा गत्वा यं यं वा स्वजनैः सह ॥२१४॥ मायया मोहयामास वञ्चयित्वाऽतिचर्यया। . तं तं ज्ञात्वा च संभाष्य तत्तद्वाङ्मूलमप्यलम् ।।२१।। श्रुत्वा पश्चाच्छोत्रियेभ्यः श्रावयित्वाऽखिलं ततः। राशे बन्धुनि चावेद्य प्रायश्चिनं ततश्चरेत् ॥२१६।। एतादृशेषु कृत्येषु सा क्षेत्रं प्रभवेद्ध वम् । प्रथमोद्वाहकरयैव परं त्वेषा परा न तु ॥२१७|| कदाचिद्धर्मकृत्यानां न तस्यापि परस्य वा।
तदपेक्षया वेश्या विशिष्यते सा भोगमात्रयोग्यापि वेश्या तस्या विशिष्यते ॥२१८॥ तया चेत्तेषु कृत्येषु सपङ्क्तौ भोजनं तथा । सह वा भोजनं दुष्टं यदि पातित्यकारकम् ॥२१६।। तच्छुध्यर्थं रसायां तु श्वभ्र संछाद्य धर्मतः । खनित्वा याममात्रं वा घटिकाद्वयमेव वा ॥२२०।। तस्मादुद्धृत्य पश्चात्तु जातकादि समाचरेत् । तप्तकृच्छ्रसहस्राणि धर्मतश्च समाचरेत् ॥२२१।। नियतात्मा यावकाशी चापाग्रं तद्भवेच्छुचिः। पञ्च स्नानसहस्राणि स्वयं विप्रमुखेन वा ॥२२२।। समाचरेत्ततः स्वस्य शुद्धो भवति केवलम् । न परेषामयं योग्य एवमाह पुरा भृगुः ॥२२३॥