________________
बहुवारविवाहिताया गतिवर्णनम् २६७१ सा वै पुत्रैस्तदुद्भूतैश्चण्डालत्वं भजेत वै।
भ्रान्त्या पुत्रिकादिविवाहे जाते स्वमात्रशुद्धिः यदि स्वसारं तनयां चिराद्भ्रान्त्यादिकृच्छ्रतः ।।२०।। विवहेन्मोहतो ज्ञाते कृत्वा चान्द्रसहस्रकम् । चापाग्रयानतः पश्चात् पुटगर्भविधानतः ॥२०६।। करणाज्जातकादीनां स्वमात्रस्य शुचिर्भवेत् । परेषां शूद्रतुल्योऽयं ततस्ता बिभृयादपि ॥२०७।। पूर्वधर्म विनिक्षिप्य तस्यां भक्त्या जपन्वसेत् ।
पुत्रे जाते . यदि तस्यां प्रजायेरंस्तांश्चण्डालेषु विन्यसेत् ॥२०८।। ततः स्वयं च नित्यं वै यावकाशी चरेद्भवम् । पापप्रख्यापनं कुर्वन् यावज्जीवं हरिं भजन् ।।२०६।। पुण्यक्षेत्रेषु नियतं वसन् भक्त्या रसामटेत् । विवाहितां च विधवा महामोहेन वञ्चकैः ॥२१०॥ दत्तां विवाह्य तज्ज्ञात्वा सद्यश्चण्डालतां व्रजेत् । तदोषशमनायैवं पूर्ववत्तु समाचरेत् ॥२११।। द्विगुणं निखिलं कृत्यं समुन्नेयं विचक्षणैः ।
एकद्वित्रिचतुः पञ्चवारं विवाहिता एकद्वित्रिचतुः पञ्चवारं वै या विवाहिता ॥२१२।। अतिक्षुद्रककालेषु पापैकबहुलेषु च । विज्ञाता चेत्तु तां सम्यक् पृष्ट्वा गत्वा विचार्य च ॥२१३।।