SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ शाकमूलादिवमनेऽघमर्षस्नानादिविधानवर्णनम् २६६७ संकलीकरणे चांत्र मलिनीकरणे तथा । अपात्रीकरणेऽन्यत्र जातिभ्रंशकरादिषु ॥१६८।। सूतकादिषु सर्वेषु सर्वेष्वाशौचकर्मसु । स्नानमेव परं प्रोक्तं सर्वकछव्रतादिषु ॥१६॥ सर्वाद्यन्तेष सत्रेषु तदेव परिकीर्तितम् । अभोज्यभोजनेष्वेवं स्नानं तत्समुदाहृतम् ॥१७०।। अकार्यकरणेष्वेषु मुख्यस्नानानि मुख्यतः । भवेयुर्हि पवित्राणि तानीमानि ततः सदा ॥१७१।। चरेद्यत्नेन शुध्यर्थं न चेतिक वात्र शुध्यति । वमने स्नानम् स्वक्रियावमने सद्यः सवासा जलमाविशेत् ॥१७२।। अजीर्णवमने स्नानमौषधादिक्रियावशात् । वमने स्नानाभावस्थलम् वमनेऽप्यवगाहः स्यान्मक्षिकामूलतो यदि ॥१७३।। नावगाहः प्रकर्तव्यस्तल्लेपक्षालनं परम् । प्रकर्तव्यं प्रयत्नेन धारणं शुद्धवाससाम् ॥१४॥ शाकमूलादिवमने शाकैर्मलैः फलैः पत्रैः कटुतिक्तरसादिभिः । सद्यश्चद्वमनं तन्न चिरकाले तु तद्भवेत् ।।१७।। यदा चेद्रोगवमनं तदा स्नानं विधानतः । सद्य एव प्रकर्तव्यमघमर्षविधानतः ॥१७६।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy