SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ २६६६ आङ्गिरसस्मृतिः अमेयैः संवृतो वेदः साक्षान्नारायणात्मकः । तादृशस्यास्य वेदस्य पठनात् सर्वकिल्बिषैः ॥१५६।। सद्य एव विमुक्तः स्यात् पातकी नात्र संशयः । ब्राह्मणस्य वेदाधिकारः तादृशस्यास्य वेदस्य पठने ब्राह्मणस्य वै ॥१६०।। अधिकारो न चान्यस्य संस्कृतस्यैव कर्मभिः । तत्रापि परिशुद्धस्य कृतनित्यक्रियस्य वै ॥१६॥ तत्रापि परिशुद्धस्य विशेषेषु दिनेष्वपि । शुद्धाच्छुद्धः स्वतो वेदस्तदुच्चारणतः क्षणात् ॥१६२।। देवनामान्यनन्तानि निखिलान्यघहानि वै। असकृत्पठितानि ग्युर्मात्र कार्या विचारणा ॥१६३।। स्नानं कृत्वा प्रारभेच्च वेदं तं तादृशं शिवम् । अस्नात्वारम्भे यद्यस्नात्वैव मोहेन प्रारभेत् पातकी भवेत् ॥१६४॥ स्नानतः सर्वकर्माणि सिध्यन्त्येव न संशयः । __सर्व स्नानमूलम् स्नानमूलमिदं ब्राह्म स्नानमूलमिदं तपः ॥१६॥ स्नानमूलाखिला यज्ञाः स्नानमूलमिदं जगत् । सर्वकृत्येषु सर्वत्र स्नानमेव परं मतम् ॥१६६।। कृत्स्नेष्वशुचिषु स्नानं तारकं परिकीर्तितम् । अस्पृश्यस्पर्शनादिकर्माङ्गस्नानम् अस्पृश्यस्पर्शने चैवमभक्ष्याणां च भक्षणे ॥१६७।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy