SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ २६६४ आङ्गिरसस्मृतिः प्रेतसंस्काराभावे अकृत्वा प्रेतसंस्कारं यो भुङ्क्त कामकारतः । तत्प्रेतकृतपापौघं तत्क्षणाल्लभतेऽखिलम् ॥१४२॥ तद्दोषशमनायाथ चापाग्रे स्नानमाचरेत् । मासमात्रं प्रयत्नेन न चेदुक्थ्यं समाचरेत् ॥१४३॥ ___विप्रानुज्ञया यतिकृत्यम् विप्राभ्यनुज्ञया कुर्यात् कर्ममात्रं विशेषतः । पितृकृत्यं प्रेतकृत्यं तयोनों चेद्यतेरपि ॥१४४॥ विप्रानुज्ञा यतिरपि लब्ध्वा स्नात्वा वस्त्रतः । प्रेतकृत्यं प्रकुर्वीत न चेत् कृत्यं तु तन्न तु ॥१४॥ अपि शास्त्रकृतं कर्म बहुविप्रामतं तु यत् । तदभ्यनुज्ञया तत्तु कर्मतः पुनराचरेत् ॥१४६।। बहुविप्रतिरस्कारप्रद्वषागःप्रदूषितम् । तदभ्यनुज्ञारहितं यत्तत्कर्म पुनश्चरेत् ॥४७॥ ___ कर्तरि सन्निहितेऽकर्तृकृतं पुनः यद्यक कृतं कर्म समीपे कर्तरि स्थिते । धनवृत्तिगृहक्षेत्रहेतवे तत्पुनश्चरेत् ॥१४॥ असगोत्रसंस्कृतावाशौचम् असगोत्रमपि प्रेतं दाययेद्यः कथंचन । स चापि गोत्रिभिस्तुल्यो दशाहं सूतकी भवेत् ॥१४॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy