SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ २६६० आङ्गिरसस्मृतिः अङ्गानि तत्तत्कालेषु कुर्यात्तत्र न सूतकी। भवेदेव तदा सद्यो गते तस्मिन् पुनस्तथा ॥१०॥ जीवपितृकपिण्डपितृयज्ञादिश्राद्धम् अपि जीवत्पिता पिण्डपितृयज्ञं समाचरेत् । मासि श्राद्धं तथा होमादष्टकां पितृयज्ञतः ॥१४॥ पितुर्वियोगात्परतः पिण्डदानं समाचरेत् । तेनायं श्राद्धकर्ता स्यान्न मातुः पिण्डदानतः ॥१०।। जीवे पितरि चेच्छ्राद्ध प्राप्ते नैमित्तिके यदि । येभ्य एव पिता दद्यात्तेभ्यो दद्यात्तु तत्सुतः ॥१०६।। एवं पितामहे जीवे येभ्यो दद्यात् स हि स्वयम् । तेभ्यो दद्यात्तु तत्पौत्रस्तथा स्यात्प्रपितामहे(हान) ॥१०७|| पितरि संन्यस्ते पातित्यादिदूषिते तत्पित्रादिश्राद्धम् संन्यस्ते पतिते ताते भ्रान्तचित्ते चलात्मनि । तत्कर्तृ काणि श्राद्धानि स्वयं पुत्रः सगाचरेत् ॥१०८।। तत्तत्कालेषु विधिवच्छ्राद्धकर्ता न तेन सः। तेषामकरणात्सोऽयं सद्यश्चण्डालतां व्रजेत् ॥१०६।। श्राद्धाधिकारी पिण्डस्य दानमात्रेण जायते । ऋत्विक्त्वेन वृते तम्मिन् न तु कर्ता भवेदयम् ॥११०।। पितुः पिण्डप्रदानेन श्राद्धकर्ता भवेदयम । श्राद्धाधिकारसिध्यर्थं कुर्यादेकादशेऽहनि ॥११|| पार्वणं तद्विधानेन पितुः सिद्धरनन्तरम् । कर्मन्दी ब्रह्मभूतस्य तदा तस्मिन्नियोजयेत् ॥११२।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy