________________
२६५८
आङ्गिरसस्मृतिः
अपावृत्ते तृतीये च दिवसेऽथ चतुर्थके | अह्नि द्वितीययामे वै शतकुम्भैरमन्त्रितैः ॥८४॥ अभिषेकं कारयित्वा शेषं कर्म समाचरेत् ।
औपासने त्वनारब्धे द्वितीयेऽह्नि चेत् औपासने त्वनारब्धे द्वितीयदिवसे यदि ॥८५॥ रजस्वला तदा तस्यै हविष्मन्मन्त्र सेचनात् । परं वस्त्रद्वयं दत्वा तूष्णीकं मन्त्रवर्जनात् ॥ ८६॥ ताभ्यामाच्छाद्य तत्पश्चात्सहस्र रुदकुम्भकैः । चतुर्थदिवसे कुर्यादभिषेकं समन्त्रकैः 112011 पञ्चगव्यस्तिलैः श्वेतैः सर्षपैः सर्वधान्यकैः । व्याहृत्या चैव गायत्र्या हुनेदष्टोत्तरं शतम् ||८८|| अष्टोत्तरसहस्रं चेत्सर्वदोषहरं परम् ।
आयुष्यसूक्तं हुत्वाथ चरुणा लाजतोऽपि वा ॥८६॥ होमशेषं समाप्याथ कर्मशेषं समापयेत् । पश्चाच्छुद्धिमवाप्नोति कर्मणस्तस्य केवलम् ||१०| तत्पश्चमेऽथ दिवसे त्वौपासनपरिग्रहः । तयाथ संगमो मासाद्गर्भाधानविधानतः ॥ १॥ तद्गृहक्षेत्रमनसां परस्परविरोधतः । निरुद्धप्रेतकृत्यानां सूतकं तत्समापनात्
||२||
निरुद्धप्रेतकृत्या ये तद्द्रव्यहरणेच्छया । तत्समापन पर्यन्तं तेषां तत्सूतकं भवेत् ॥ ६३ ॥