________________
२६५६
आङ्गिरसस्मृतिः एवं वर्षाष्टकेऽतीते ताीयीकाश्रमं ब्रजेत् । शिखासूत्रं च तद्युग्मं ब्राह्मणत्वस्य मूलके ॥६४॥ यया कया च विधया शिखां सूत्रं च बिभृयात् । शिखाच्छेदो पञ्चवारं यदि जायेत शत्रुभिः ॥६॥ ब्राह्मण्यं तस्य नष्टं स्यात् पुनःसंस्कारतोऽपि तत् ।
श्राद्धविघ्न स्त्रीसंगे श्राद्धविघ्ने समुत्पन्ने सन्ततं सूतकादिना ॥६६॥ अकृत्वैव तदा श्राद्धं नोपेयाच्च स्त्रियं तराम् । तदा यद्याहितो गर्भो ब्रह्महत्याव्रतं चरेत् ॥६॥ तदा सकृत्सन्निपाते प्राजापत्यत्रयं चरेत् । असकृद्गमनाचापाग्रयानं च समाचरेत् ॥६॥ तस्योपनयनं भूयश्चोदितं ब्रह्मवादिभिः। प्रविष्टपरकायो यः स्वभार्या तेन वर्मणा ॥६॥ नोपेयात्तत्प्रविष्टः सन्नोपेयात्तस्य तामपि । तादृशं कर्म कुर्याच्चेत्तत्कुलं स्वकुलं च ते ॥७०॥ आत्मानं पातयेदोरे नरके गैरवाभिधे। नष्ट त्रिप्रायके श्राद्ध पूर्वस्मिन् हविषि क्वचित् ।।७१॥ तदा पुनस्तत्संपाद्य हुत्वा प्राणादिभिश्चरुम् । द्वात्रिंशदाहुतेः पश्चात्तच्छेषेण समापनम् ॥७२॥ यत्तस्त्रिप्रायकं श्राद्धं तस्यागूश्च समापनम् । अपराह्न च मध्याह्न सद्यः पक्कं भवेद्धि वै ॥७३।।