________________
२६५४
आङ्गिरसस्मृतिः
सूत्याशौचस्यास्पृश्यत्वम् सूत्याशौचे मृताशौचे वैदिकं कर्म नाचरेत् । अस्पृश्यत्वं न सूत्यां स्यादाशीचे तु भवेद्धि तत् ॥४५॥ उभयोर्भोजनं कुर्यान्महागुरुनिपातने। अहोरात्रं भुक्तिहैन्यं सर्वेषामपि तन्मतम् ॥४६॥ अकालभुक्तिराशौचे सूत्याशौचे न तन्मतम् । संध्यामात्रं प्रकुर्वीत तयोर्मानसनन्त्रतः ॥४७॥ एकद्वित्रिचतुर्नारीनष्टाशौचस्य चेत्पुनः । आशौचे वर्तमानस्य संघाताशौचिनस्ततः ॥४८॥ साक्षादन्नस्य भुक्तिर्न संध्या सा स्याजले क्रिया।
संतताशौचसंभवे शतज्ञातिगतग्रामवासिनः संतताधिनः ॥४६॥ सूतकान्ते पुनःप्राप्तसूतकस्य निरन्तरम् । अब्दं दृष्ट्वा ततो यत्नात्त्यक्त्वा तं ग्राममादरात् ॥५०॥ सद्यो देशान्तरे पित्रोः श्राद्ध कार्यमिति स्थितिः । यदा परंपराघोऽस्य (घस्य) जायते श्राद्धवारकः ।।१।। तदा संवत्सरं दृष्ट्वा सद्यो देशान्तरं व्रजेत् । यदि विघ्नो न जायेत श्राद्यस्याथ तथा तदा ॥५२।। श्राद्धं तत्रैव कुर्वीत धृतयज्ञोपवीतवान् । एकदैव समाक्रान्तः सूतकत्रयतो यदि ॥३।। एकाशौचेन वा पश्चाद्यज्ञसूत्रं तु बिभृयात् । यज्ञसूत्रविहीनः स्यादनहः सर्वकर्मसु ॥४॥