________________
२६५२
आङ्गिरसस्मृतिः
पाकारम्भात्पूर्व तद्वीथ्यां मृतिसंभवे पाकारम्भस्य पूर्व तत्प्रभवेच्छ्राद्धवारकम् ॥२६॥ शवं वीथ्यां निपतितं पाकारम्भात्परं तु न । उपक्रान्तस्य तस्यास्य सूतकं यदि मध्यतः ॥२७॥ अप्यागतं तेन तद्धि वारितं न भविष्यति। तस्माच्छ्राद्धमुपक्रान्तं सूतकेऽपि तथाऽऽचरेत् ॥२८॥ आतर्पणं विधानेन पाकस्यारम्भतोऽखिलम् ।
दर्शपूर्णमासेष्टिपशुबन्धानन्तरं श्राद्धम् सर्वेषां व्रतकृछाणां वारकं श्राद्धमेककम् ॥२६॥ तस्यापि वारको यागः पौर्णमासश्च दार्शिकः । पौर्णमासं च दशं च पशुबन्धं च तद्दिने ॥३०॥ समागतं समाप्याऽऽदौ पश्चाच्छाद्धं समाचरेत । पितृक्रियादिनप्राप्तयागानुष्ठानतोऽखिलाः ॥३११ वसवश्चापि रुद्राश्चाप्यादित्याश्चैव कृत्स्नशः। तद्र पाः पितरः सर्वे सर्वे चापि पितामहाः ॥३२॥ नित्यतृप्ता भवेयुर्वै निखिलाः प्रपितामहाः । दीक्षाप्राप्त्या तु भूयिष्ठा तृप्तिस्तेषां भविष्यति ॥३३॥
महादीक्षामध्यगतश्राद्धम् प्रत्यब्दमासस्तन्मासदीक्षा या न भविष्यति । प्रत्यब्दमपि पित्रोस्तन्न पितृव्यादिकं मतम् ॥३४॥ महादीक्षामध्यगतं गतमेव भविष्यति । महादीक्षागतस्यास्य तदन्ते करणं ननु ॥३३॥