________________
२६५०
आङ्गिरसस्मृतिः
मन्त्राभावे व्याहृतयः मन्त्राभावे तु सर्वत्र स्मृता व्याहृतयः किल ॥७॥ अन्वये लिङ्गतोऽर्थाद्वा विरोधाभावतः परे। तत्तन्मन्त्राः संभवन्ति तेषु तेषु तु कर्मसु ॥ ८॥ प्रायश्चित्तं दृश्यते न यत्र कुत्रापि तत्र वै। तस्यैतत्कथितं दिव्यं प्रायश्चित्तं महत्तरम् ॥६॥ पुण्या व्याहृतयश्चेति सा ऋग्वा वैष्णवी शिवा । सर्वपापप्रशमनी चिन्तितार्थंकदायिनी ॥१०॥ प्रायश्चित्तक्रियाहेतोनिर्णीता विष्णुना पुरा । न व्याहृतिसमो मन्त्रो न व्याहृतिसमो जपः ॥११।। न व्याहृतिसमस्तीर्थो न व्याहृतिसमं तपः । न व्याहृतिसमो यज्ञो न व्याहृतिसमाः क्रियाः ॥१२॥ तस्मात्सर्वत्र ता दृष्टाः प्रायश्चित्ताय केवलम् । तस्माद्वदिककृत्यानां लौकिकानामशेषतः ॥१३।। प्रमादाकरणे कृत्स्ने तत्त्यागे बुद्धिपूर्वके । अज्ञानिनां ज्ञानिनां च पावकास्तारकाः पराः ॥१४॥ उत्तारका व्याहृतयो ऋचा युक्तास्तया पुनः ।
जातकर्माद्यतिक्रमे कर्मणोऽकरणे जातनाम्नोर्व्याहृतयः स्मृताः ॥१५॥ दिनैकसाध्याः कथितास्तथा नामाख्यकर्मणः । तथान्नप्राशनस्यापि चौलस्याकरणे ततः ॥१६॥