________________
२६४८
दाल्भ्यस्मृतिः संग्रामे अट्टमार्गे च यात्रादेवगृहेषु च । महोत्साहे महोत्पाते स्पृष्टास्पृष्टिर्न दुःष्यति ॥१६३।। दिवा(१)कपिच्छ(स्थ)छायायां रात्रौ दधिशमीषु च। . धात्रीफलेषु सप्तम्यामलक्ष्मीर्वसते सदा ॥१६४॥ शूर्पवातो नखाद्विन्दुः केशवस्नघटोदकम् । मार्जनीरेणुसहितं हन्ति पुण्यं पुराकृतम् ॥१६५।। यत्र यत्र च संकीणं पश्येदात्मनमात्मना । तत्र तत्र तिलैहोमो गायत्र्या वर्तनं यथा ॥१६६।। इदं दाल्भ्यकृतं शास्त्रं श्रावयिष्यति यो द्विजान् । सर्वपापविशुद्धात्मा पुण्यलोकमवाप्नुयात् ॥१६७। ॥ इति श्रीदाल्भ्यप्रोक्तं धर्मशास्त्रं समाप्तम् ।।
॥शुभम्भूयात्॥