________________
शुद्धाशुद्धिवर्णनम्
२६४७ स्नापयेत् पञ्चगव्येन मृत्तिकाभिश्च लेपयेत् । वंशपात्रेण तत्स्नानं ततः शुध्यति सूतिका ॥१२॥
आतुरे स्नानमुत्पन्ने शतकृत्वा ह्यनातुरः । स्नात्वा स्नात्वा स्पृशेदेनं ततः शुध्यति आतुरः ॥१५३॥ शुना पुष्पवती स्पृष्टा पुष्पवत्यन्यया तथा। शेषान्यहान्युपवसेत् घृतं प्राश्य विशुष्यति ॥१५४।। अन्त्यजैः स्वीकृते तीर्थे तडागेषु नदीषु च । पिबेत्पानीयमज्ञानात् पंचगव्येन शुध्यति ॥१५३।। तडागकूपगर्ते तु चण्डालादिविदूपिते । अपां शतघटोद्धारः पंचगव्येन शुध्यति ॥१५६।। दाराग्निहोत्रसंयोगं कुरुते योऽप्रजे स्थिते । परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥१५७।। परिवित्तिः परिवेत्ता या या च परिविंदति । सर्वे ते नरकं यान्ति दातृयाजकपंचमाः ॥१५८।। पितृव्यपुत्राः सापत्नाः परनारीसुताश्च ये। दाराग्निहोत्रधर्मेण न दोपः परिवेदने ॥१५॥ ज्येष्ठो भ्राता यदातिष्ठेदाधानं नैव कारयेत् । अनुज्ञातस्तु कुर्वीत शंखस्य वचनं यथा ॥१६०।। आममांसं घृतं क्षौद्र स्नेहाश्च पत्रसंभवाः । म्लेच्छभाण्डगता ये वै आत्मभाण्डगताः शुचिः ॥१६१।। पत्रचूर्णेषु यत्तोयं गोरसेपु च संस्थितम् । न दृष्यं तद्भवेद्वारि इत्येवं मनुरब्रवीत् ॥१६२।।