________________
२६४६
दाल्भ्यस्मृतिः खगोत्रो वान्यगोत्रो वा यदि स्त्री यदि वा पुमान् । प्रथमेऽहनि यो दद्यात् स दशाहं समापयेत् ॥१४१॥ निर्दशे गुरुपाते च कृते चैवोर्ध्वदेहिके। ऊध्वं त्रिरात्रमाशौचं दशाहमकृतक्रियः ॥१४२॥ आत्रिमासात् त्रिरात्रं स्यात् षण्मासे पक्षिणी स्मृता । अहः संवत्सरादर्वाक् ततः स्नानं समाचरेत् ॥१४३।। रात्रावेव समुत्पन्ने मृते रजसि सूतके । पूर्वमेव दिनं ग्राह्यं यावन्नोदयते रविः ॥१४४॥ उदिते तु यदा सूर्ये नारीणां दृश्यते रजः। जननं वा विपत्तिर्वा यस्याहस्तस्य शर्वरी ॥१४।। उषसः प्राग्रजः स्त्रीणां विज्ञेयं दिनपूर्वकम् । अर्धरात्रावधिः कालः सूतकादौ विधीयते ॥१४६।। रात्रिं कृत्वा त्रिभागा तु द्वौ भागौ पूर्व एव तु । उत्तरं तु परं ज्ञेयं युज्यते रुधिरःस्मृतः ॥१४॥ रजस्वला यदि स्नाता पुनरेव रजस्वला । एकादशदिनादर्वागशुचित्वं न विद्यते ॥१४८।। रजस्वलायां प्रेतायां संस्कारादीनि नाचरेत् । ऊवं त्रिरात्रतः स्नातां शवधर्मेण दाहयेत् ॥१४॥ या मृता सूतकी नारी या मृता च रजस्वला । पूर्ववस्त्रं परित्यज्य शवधर्मेण दाहयेत् ॥१५०।। अन्तरिक्षे मृता ये वाऽप्यमौ चाप्सु प्रमादतः। उदयां सूतिकी नारी चरेश्चान्द्रायणत्रयम् ॥१५॥